|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.25. अध्यायः 025
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेनार्जुनंप्रति ब्राह्ममेन ब्राह्मणींप्रत्युक्तसृष्ट्यादिप्रतिपादकनारददेवमतसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदस्य च संवादमृषेर्देवमतस्य च॥ 14-25-1(93107)
देवमत उवाच। 14-25-2x(7826)
जन्तोः संजायमानस्य किंनु पूर्वं प्रवर्तते।
प्राणोऽपानः समानो वा व्यानो वोदान एव च॥ 14-25-2(93108)
नारद उवाच। 14-25-3x(7827)
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम्।
प्राणद्वन्द्वं हि विज्ञेयं तिर्यगूर्ध्वमधश्च यत्॥ 14-25-3(93109)
देवमत उवाच। 14-25-4x(7828)
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम्।
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वमधश्च यत्॥ 14-25-4(93110)
नारद उवाच। 14-25-5x(7829)
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते।
रसात्संजायते चापि रूपादपि च जायते॥ 14-25-5(93111)
`स्पर्शात्संजायते चापि गन्धादपि च जायते।'
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते।
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते॥ 14-25-6(93112)
शुक्रात्संजायते चापि रसादपि च जायते।
एतद्रूपमुदानस्य हर्षो मिथुनमन्तरा॥ 14-25-7(93113)
कामात्संजायते शुक्रं शुक्रात्संजायते रजः।
समानव्यानजनिते सामान्ये शुक्रशोणिते॥ 14-25-8(93114)
प्राणापानाविदं द्वन्द्वमवाक् चोर्ध्वं च गच्छतः।
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते॥ 14-25-9(93115)
अग्निर्वै देवताः सर्वा इति देवस्य शासनात्।
संजायते हि प्राणेषु ज्ञानं बुद्धिसमन्वितम्॥ 14-25-10(93116)
तस्य धूमस्तमोरूपं रजो भस्म सुतेजसः।
सर्वं संजायते तस्य यत्र प्रक्षिप्यते हविः॥ 14-25-11(93117)
हविः समानो व्यानश्च इति यज्ञविदो विदुः।
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः॥ 14-25-12(93118)
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः।
निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणुः॥ 14-25-13(93119)
अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥ 14-25-14(93120)
`उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥' 14-25-15(93121)
सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥ 14-25-16(93122)
`उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥' 14-25-17(93123)
ऊर्ध्वं समानो व्यानश्च व्यस्यते कर्म तेन तत्।
द्वितीयं तु समानेन पुनरेव व्यवस्यते॥ 14-25-18(93124)
शान्त्यर्थं वामदेव्यं च शान्तिर्ब्रह्म सनातनम्।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः॥ ॥ 14-25-19(93125)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चविशोऽध्यायः॥ 25 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-25-18 पूर्वंसमानो व्यानोऽथ व्यस्यते तेन कर्मकृत् इति क.ट.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|